Original

शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः ।विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः ।संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः ॥ १७ ॥

Segmented

शर-शक्ति-अर्दिताः क्लान्ता रात्रि-मूढ-अल्प-चेतसः विष्टभ्य सर्व-गात्राणि व्यतिष्ठन् गज-वाजिनः संशुष्क-वदनाः वीराः शिरोभिः चारु-कुण्डलैः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
क्लान्ता क्लम् pos=va,g=m,c=1,n=p,f=part
रात्रि रात्रि pos=n,comp=y
मूढ मुह् pos=va,comp=y,f=part
अल्प अल्प pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
विष्टभ्य विष्टम्भ् pos=vi
सर्व सर्व pos=n,comp=y
गात्राणि गात्र pos=n,g=n,c=2,n=p
व्यतिष्ठन् विष्ठा pos=v,p=3,n=p,l=lan
गज गज pos=n,comp=y
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
संशुष्क संशुष्क pos=a,comp=y
वदनाः वदन pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
चारु चारु pos=a,comp=y
कुण्डलैः कुण्डल pos=n,g=n,c=3,n=p