Original

अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत ।संवार्य तान्बाणगणैर्युधि राजन्धनंजयः ।अवधीत्तावकान्योधान्वज्रपाणिरिवासुरान् ॥ ३० ॥

Segmented

अथ इतरान् महा-इष्वासान् त्रिभिः त्रिभिः अविध्यत संवार्य तान् बाण-गणैः युधि राजन् धनंजयः अवधीत् तावकान् योधान् वज्रपाणिः इव असुरान्

Analysis

Word Lemma Parse
अथ अथ pos=i
इतरान् इतर pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अविध्यत व्यध् pos=v,p=3,n=s,l=lan
संवार्य संवारय् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
बाण बाण pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
तावकान् तावक pos=a,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
इव इव pos=i
असुरान् असुर pos=n,g=m,c=2,n=p