Original

संजय उवाच ।ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः ।अमृष्यमाणाः संरब्धा युयुधानरथं प्रति ॥ १ ॥

Segmented

संजय उवाच ततस् ते प्राद्रवन् सर्वे त्वरिता युद्ध-दुर्मदाः अमृष्यमाणाः संरब्धा युयुधान-रथम् प्रति

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
त्वरिता त्वर् pos=va,g=m,c=1,n=p,f=part
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p
अमृष्यमाणाः अमृष्यमाण pos=a,g=m,c=1,n=p
संरब्धा संरभ् pos=va,g=m,c=1,n=p,f=part
युयुधान युयुधान pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i