Original

सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः ।पुनर्विव्याध दशभिर्निशितैर्नतपर्वभिः ॥ २ ॥

Segmented

सहदेवः तु राधेयम् विद्ध्वा नवभिः आशुगैः पुनः विव्याध दशभिः निशितैः नत-पर्वभिः

Analysis

Word Lemma Parse
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
नवभिः नवन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p