Original

एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव ।अभ्यवर्तत युद्धाय द्रावयन्सर्वधन्विनः ।चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः ॥ १५ ॥

Segmented

एवम् उक्त्वा महा-बाहुः पुत्रम् दुर्योधनम् तव अभ्यवर्तत युद्धाय द्रावयन् सर्व-धन्विनः चिकीर्षुः ते पुत्राणाम् प्रियम् प्राणभृताम् वरः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
युद्धाय युद्ध pos=n,g=n,c=4,n=s
द्रावयन् द्रावय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
धन्विनः धन्विन् pos=a,g=m,c=2,n=p
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
प्रियम् प्रिय pos=a,g=n,c=2,n=s
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s