Original

योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान् ।पाञ्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा ।पाण्डवेयैश्च संग्रामे त्वत्प्रियार्थमरिंदम ॥ १० ॥

Segmented

योत्स्ये ऽहम् शत्रुभिः सार्धम् जेष्यामि च वरान् वरान् पाञ्चालैः सह योत्स्यामि सोमकैः केकयैः तथा पाण्डवेयैः च संग्रामे त्वद्-प्रिय-अर्थम् अरिंदम

Analysis

Word Lemma Parse
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
जेष्यामि जि pos=v,p=1,n=s,l=lrt
pos=i
वरान् वर pos=a,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
सह सह pos=i
योत्स्यामि युध् pos=v,p=1,n=s,l=lrt
सोमकैः सोमक pos=n,g=m,c=3,n=p
केकयैः केकय pos=n,g=m,c=3,n=p
तथा तथा pos=i
पाण्डवेयैः पाण्डवेय pos=n,g=m,c=3,n=p
pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
त्वद् त्वद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s