Original

ततोऽभवन्महाशब्दस्तुमुलो लोमहर्षणः ।समावृण्वन्दिशः सर्वा महेन्द्राशनिनिस्वनः ॥ २६ ॥

Segmented

ततो अभवत् महा-शब्दः तुमुलः लोम-हर्षणः समावृण्वन् दिशः सर्वा महा-इन्द्र-अशनि-निस्वनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणः हर्षण pos=a,g=m,c=1,n=s
समावृण्वन् समावृ pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s