Original

प्रत्युद्ययुस्तं त्वरिताः पाञ्चाला राजगृद्धिनः ।तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम् ।चण्डवातोद्धतान्मेघान्निघ्नन्रश्मिमुचो यथा ॥ ३३ ॥

Segmented

प्रत्युद्ययुः तम् त्वरिताः पाञ्चाला राज-गृद्धिन् तान् द्रोणः प्रतिजग्राह परीप्सन् कुरुसत्तमम् चण्ड-वात-उद्धतान् मेघान् निघ्नन् रश्मिमुचो यथा

Analysis

Word Lemma Parse
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
परीप्सन् परीप्स् pos=va,g=m,c=1,n=s,f=part
कुरुसत्तमम् कुरुसत्तम pos=n,g=m,c=2,n=s
चण्ड चण्ड pos=a,comp=y
वात वात pos=n,comp=y
उद्धतान् उद्धन् pos=va,g=m,c=2,n=p,f=part
मेघान् मेघ pos=n,g=m,c=2,n=p
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
रश्मिमुचो रश्मिमुच pos=n,g=m,c=1,n=s
यथा यथा pos=i