Original

तं विव्याध पुनर्भीमः षड्भिरष्टाभिरेव च ।मर्मस्वमरविक्रान्तः सूतपुत्रं महारणे ॥ ५० ॥

Segmented

तम् विव्याध पुनः भीमः षड्भिः अष्टाभिः एव च मर्मसु अमर-विक्रान्तः सूतपुत्रम् महा-रणे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
भीमः भीम pos=n,g=m,c=1,n=s
षड्भिः षष् pos=n,g=m,c=3,n=p
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
एव एव pos=i
pos=i
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
अमर अमर pos=n,comp=y
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s