Original

विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत् ।तं च हत्वेतरान्सर्वान्हन्तुकामो महाबलः ॥ २२ ॥

Segmented

विधित्सुः कलहस्य अन्तम् जिघांसुः कर्णम् अक्षिणोत् तम् च हत्वा इतरान् सर्वान् हन्तु-कामः महा-बलः

Analysis

Word Lemma Parse
विधित्सुः विधित्सु pos=a,g=m,c=1,n=s
कलहस्य कलह pos=n,g=m,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अक्षिणोत् क्षि pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
pos=i
हत्वा हन् pos=vi
इतरान् इतर pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
हन्तु हन्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s