Original

तमपि प्रहसन्द्रोणः शरैर्निन्ये यमक्षयम् ।महाव्याघ्रो महारण्ये मृगशावं यथा बली ॥ ३९ ॥

Segmented

तम् अपि प्रहसन् द्रोणः शरैः निन्ये यम-क्षयम् महा-व्याघ्रः महा-अरण्ये मृग-शावम् यथा बली

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
निन्ये नी pos=v,p=3,n=s,l=lit
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
मृग मृग pos=n,comp=y
शावम् शाव pos=n,g=m,c=2,n=s
यथा यथा pos=i
बली बलिन् pos=a,g=m,c=1,n=s