Original

तथैव चरतस्तस्य सौभद्रस्य महात्मनः ।रथेन मेघघोषेण ददृशुर्नान्तरं जनाः ॥ १४ ॥

Segmented

तथा एव चरतः तस्य सौभद्रस्य महात्मनः रथेन मेघ-घोषेण ददृशुः न अन्तरम् जनाः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
चरतः चर् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
सौभद्रस्य सौभद्र pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
रथेन रथ pos=n,g=m,c=3,n=s
मेघ मेघ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
pos=i
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p