Original

सुवर्णालंकृतैरेतैर्वर्मवद्भिः सुकल्पितैः ।हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली ।अभ्यवर्तत तत्सैन्यं हृष्टरूपः परंतपः ॥ ५ ॥

Segmented

सुवर्ण-अलंकृतैः एतैः वर्मवद्भिः सु कल्पितैः हयैः वात-जवैः मुख्यैः पाण्डवस्य सुतो बली अभ्यवर्तत तत् सैन्यम् हृष्ट-रूपः परंतपः

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
अलंकृतैः अलंकृ pos=va,g=m,c=3,n=p,f=part
एतैः एतद् pos=n,g=m,c=3,n=p
वर्मवद्भिः वर्मवत् pos=a,g=m,c=3,n=p
सु सु pos=i
कल्पितैः कल्पय् pos=va,g=m,c=3,n=p,f=part
हयैः हय pos=n,g=m,c=3,n=p
वात वात pos=n,comp=y
जवैः जव pos=n,g=m,c=3,n=p
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=m,c=2,n=s
हृष्ट हृष् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s