Original

तदनीकमनीकेन समरे वीक्ष्य पातितम् ।अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे ।इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् ॥ ३० ॥

Segmented

तद् अनीकम् अनीकेन समरे वीक्ष्य पातितम् अमृष्यमाणाः ते सर्वे सुबलस्य आत्मजाः रणे इरावन्तम् अभिद्रुत्य सर्वतः पर्यवारयन्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अनीकम् अनीक pos=n,g=n,c=2,n=s
अनीकेन अनीक pos=n,g=n,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
वीक्ष्य वीक्ष् pos=vi
पातितम् पातय् pos=va,g=n,c=2,n=s,f=part
अमृष्यमाणाः अमृष्यमाण pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सुबलस्य सुबल pos=n,g=m,c=6,n=s
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
इरावन्तम् इरावन्त् pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
सर्वतः सर्वतस् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan