Original

तदनीकं महाबाहो भित्त्वा परमदुर्जयम् ।बलेन महता युक्ताः स्वर्गाय विजयैषिणः ।विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः ॥ २६ ॥

Segmented

तद् अनीकम् महा-बाहो भित्त्वा परम-दुर्जयम् बलेन महता युक्ताः स्वर्गाय विजय-एषिणः विविशुः ते तदा हृष्टा गान्धारा युद्ध-दुर्मदाः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अनीकम् अनीक pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
भित्त्वा भिद् pos=vi
परम परम pos=a,comp=y
दुर्जयम् दुर्जय pos=a,g=n,c=2,n=s
बलेन बल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
स्वर्गाय स्वर्ग pos=n,g=m,c=4,n=s
विजय विजय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
तदा तदा pos=i
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
गान्धारा गान्धार pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p