Original

अरत्नीनां सहस्रं च शतानि दश पञ्च च ।परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ॥ २१ ॥

Segmented

अरत्नीनाम् सहस्रम् च शतानि दश पञ्च च परिणाहः तु वृक्षस्य फलानाम् रस-भेदिन्

Analysis

Word Lemma Parse
अरत्नीनाम् अरत्नि pos=n,g=m,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
pos=i
शतानि शत pos=n,g=n,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
pos=i
परिणाहः परिणाह pos=n,g=m,c=1,n=s
तु तु pos=i
वृक्षस्य वृक्ष pos=n,g=m,c=6,n=s
फलानाम् फल pos=n,g=n,c=6,n=p
रस रस pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=6,n=p