Original

गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः ।जघ्नुः परस्परं तत्र क्षत्रियाः कालचोदिताः ॥ १७ ॥

Segmented

गदाभिः असिभिः प्रासैः बाणैः च नत-पर्वभिः जघ्नुः परस्परम् तत्र क्षत्रियाः काल-चोदिताः

Analysis

Word Lemma Parse
गदाभिः गदा pos=n,g=f,c=3,n=p
असिभिः असि pos=n,g=m,c=3,n=p
प्रासैः प्रास pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
pos=i
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
परस्परम् परस्पर pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part