Original

तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् ।छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् ॥ १४ ॥

Segmented

तम् आयान्तम् महा-इष्वासम् सोदर्याः पर्यवारयन् छादयन्तः शर-व्रातैः मेघा इव दिवाकरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
सोदर्याः सोदर्य pos=a,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan
छादयन्तः छादय् pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
मेघा मेघ pos=n,g=m,c=1,n=p
इव इव pos=i
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s