Original

धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया ।ऐश्वर्यभूतः प्राणानामुत्सर्गे नियतो ह्यहम् ।तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने ॥ ९८ ॥

Segmented

धारयिष्यामि अहम् प्राणान् उत्तरायण-काङ्क्षया ऐश्वर्य-भूतः प्राणानाम् उत्सर्गे नियतो हि अहम् तस्मात् प्राणान् धारयिष्ये मुमूर्षुः उदक्-आयने

Analysis

Word Lemma Parse
धारयिष्यामि धारय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
उत्तरायण उत्तरायण pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s
ऐश्वर्य ऐश्वर्य pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
प्राणानाम् प्राण pos=n,g=m,c=6,n=p
उत्सर्गे उत्सर्ग pos=n,g=m,c=7,n=s
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
तस्मात् तस्मात् pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
धारयिष्ये धारय् pos=v,p=1,n=s,l=lrt
मुमूर्षुः मुमूर्षु pos=a,g=f,c=1,n=s
उदक् उदञ्च् pos=a,comp=y
आयने आयन pos=n,g=n,c=7,n=s