Original

ते वराश्वरथव्रातैर्वारणैः सपदातिभिः ।तमेकं छादयामासुर्मेघा इव दिवाकरम् ।भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून् ॥ ४८ ॥

Segmented

ते वर-अश्व-रथ-व्रातैः वारणैः स पदातिभिः तम् एकम् छादयामासुः मेघा इव दिवाकरम् भीष्मम् भागीरथी-पुत्रम् प्रतपन्तम् रणे रिपून्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वर वर pos=a,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
वारणैः वारण pos=n,g=m,c=3,n=p
pos=i
पदातिभिः पदाति pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
छादयामासुः छादय् pos=v,p=3,n=p,l=lit
मेघा मेघ pos=n,g=m,c=1,n=p
इव इव pos=i
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
भागीरथी भागीरथी pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
रिपून् रिपु pos=n,g=m,c=2,n=p