Original

नरनागरथेष्वेवं व्यवकीर्णेषु सर्वशः ।क्षये तस्मिन्महारौद्रे निर्विशेषमजायत ॥ ४ ॥

Segmented

नर-नाग-रथेषु एवम् व्यवकीर्णेषु सर्वशः क्षये तस्मिन् महा-रौद्रे निर्विशेषम् अजायत

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
नाग नाग pos=n,comp=y
रथेषु रथ pos=n,g=m,c=7,n=p
एवम् एवम् pos=i
व्यवकीर्णेषु व्यवकृ pos=va,g=m,c=7,n=p,f=part
सर्वशः सर्वशस् pos=i
क्षये क्षय pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रौद्रे रौद्र pos=a,g=m,c=7,n=s
निर्विशेषम् निर्विशेष pos=a,g=n,c=1,n=s
अजायत जन् pos=v,p=3,n=s,l=lan