Original

शतानीकं च समरे हत्वा भीष्मः प्रतापवान् ।सहस्राणि महाराज राज्ञां भल्लैर्न्यपातयत् ॥ २५ ॥

Segmented

शतानीकम् च समरे हत्वा भीष्मः प्रतापवान् सहस्राणि महा-राज राज्ञाम् भल्लैः न्यपातयत्

Analysis

Word Lemma Parse
शतानीकम् शतानीक pos=n,g=m,c=2,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
हत्वा हन् pos=vi
भीष्मः भीष्म pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan