Original

एकीभूतास्ततः सर्वे कुरवः पाण्डवैः सह ।अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे ॥ १५ ॥

Segmented

एकीभूताः ततस् सर्वे कुरवः पाण्डवैः सह अयुध्यन्त महा-राज मध्यम् प्राप्ते दिवाकरे

Analysis

Word Lemma Parse
एकीभूताः एकीभू pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
अयुध्यन्त युध् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मध्यम् मध्य pos=n,g=n,c=2,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
दिवाकरे दिवाकर pos=n,g=m,c=7,n=s