Original

प्रवर्षतः शरव्रातानर्जुनस्य शितान्बहून् ।अप्यर्णवा विशुष्येयुः किं पुनर्मांसयोनयः ॥ ११ ॥

Segmented

प्रवर्षतः शर-व्रातान् अर्जुनस्य शितान् बहून् अपि अर्णवाः विशुष्येयुः किम् पुनः मांस-योनयः

Analysis

Word Lemma Parse
प्रवर्षतः प्रवृष् pos=va,g=m,c=6,n=s,f=part
शर शर pos=n,comp=y
व्रातान् व्रात pos=n,g=m,c=2,n=p
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
शितान् शा pos=va,g=m,c=2,n=p,f=part
बहून् बहु pos=a,g=m,c=2,n=p
अपि अपि pos=i
अर्णवाः अर्णव pos=n,g=m,c=1,n=p
विशुष्येयुः विशुष् pos=v,p=3,n=p,l=vidhilin
किम् किम् pos=i
पुनः पुनर् pos=i
मांस मांस pos=n,comp=y
योनयः योनि pos=n,g=f,c=1,n=p