Original

ऊरुग्राहगृहीतानां गदां बिभ्रद्वृकोदरः ।कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः ॥ ७ ॥

Segmented

ऊरू-ग्राह-गृहीतानाम् गदाम् बिभ्रद् वृकोदरः कुरूणाम् ऋषभो युद्धे दण्डपाणिः इव अन्तकः

Analysis

Word Lemma Parse
ऊरू ऊरु pos=n,comp=y
ग्राह ग्राह pos=n,comp=y
गृहीतानाम् ग्रह् pos=va,g=m,c=6,n=p,f=part
गदाम् गदा pos=n,g=f,c=2,n=s
बिभ्रद् भृ pos=va,g=m,c=1,n=s,f=part
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
ऋषभो ऋषभ pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
दण्डपाणिः दण्डपाणि pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s