Original

वैशंपायन उवाच ।गावल्गणिस्तु तत्पृष्टः सभायां कुरुसंसदि ।निःश्वस्य सुभृशं दीर्घं मुहुः संचिन्तयन्निव ।तत्रानिमित्ततो दैवात्सूतं कश्मलमाविशत् ॥ १० ॥

Segmented

वैशंपायन उवाच गावल्गणि तु तत् पृष्टः सभायाम् कुरु-संसदि निःश्वस्य सु भृशम् दीर्घम् मुहुः संचिन्तयन्न् इव तत्र अनिमित्ततस् दैवात् सूतम् कश्मलम् आविशत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गावल्गणि गावल्गणि pos=n,g=m,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
सभायाम् सभा pos=n,g=f,c=7,n=s
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
निःश्वस्य निःश्वस् pos=vi
सु सु pos=i
भृशम् भृशम् pos=i
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
मुहुः मुहुर् pos=i
संचिन्तयन्न् संचिन्तय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तत्र तत्र pos=i
अनिमित्ततस् अनिमित्ततस् pos=i
दैवात् दैव pos=n,g=n,c=5,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
कश्मलम् कश्मल pos=n,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan