Original

सनत्सुजात उवाच ।यत्तच्छुक्रं महज्ज्योतिर्दीप्यमानं महद्यशः ।तद्वै देवा उपासन्ते यस्मादर्को विराजते ।योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ १ ॥

Segmented

सनत्सुजात उवाच यत् तत् शुक्रम् महत् ज्योतिः दीप्यमानम् महद् यशः तद् वै देवा उपासन्ते यस्माद् अर्को विराजते योगिनः तम् प्रपश्यन्ति भगवन्तम् सनातनम्

Analysis

Word Lemma Parse
सनत्सुजात सनत्सुजात pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
शुक्रम् शुक्र pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
दीप्यमानम् दीप् pos=va,g=n,c=1,n=s,f=part
महद् महत् pos=a,g=n,c=1,n=s
यशः यशस् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
देवा देव pos=n,g=m,c=1,n=p
उपासन्ते उपास् pos=v,p=3,n=p,l=lat
यस्माद् यद् pos=n,g=n,c=5,n=s
अर्को अर्क pos=n,g=m,c=1,n=s
विराजते विराज् pos=v,p=3,n=s,l=lat
योगिनः योगिन् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s