Original

तादृशैः संगतं नीचैर्नृशंसैरकृतात्मभिः ।निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् ॥ १४ ॥

Segmented

तादृशैः संगतम् नीचैः नृशंसैः अकृतात्मभिः निशाम्य निपुणम् बुद्ध्या विद्वान् दूराद् विवर्जयेत्

Analysis

Word Lemma Parse
तादृशैः तादृश pos=a,g=m,c=3,n=p
संगतम् संगम् pos=va,g=m,c=2,n=s,f=part
नीचैः नीच pos=a,g=m,c=3,n=p
नृशंसैः नृशंस pos=a,g=m,c=3,n=p
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p
निशाम्य निशामय् pos=vi
निपुणम् निपुण pos=a,g=m,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
दूराद् दूरात् pos=i
विवर्जयेत् विवर्जय् pos=v,p=3,n=s,l=vidhilin