Original

मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा ।ददात्यमित्रेष्वपि याचितः संस्तमात्मवन्तं प्रजहत्यनर्थाः ॥ ९९ ॥

Segmented

मितम् भुङ्क्ते संविभज्य आश्रितेभ्यः मितम् स्वपिति अमितम् कर्म कृत्वा ददाति अमित्रेषु अपि याचितः संस् तम् आत्मवन्तम् प्रजहति अनर्थाः

Analysis

Word Lemma Parse
मितम् मित pos=a,g=n,c=2,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
संविभज्य संविभज् pos=vi
आश्रितेभ्यः आश्रि pos=va,g=m,c=4,n=p,f=part
मितम् मित pos=a,g=n,c=2,n=s
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
अमितम् अमित pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
ददाति दा pos=v,p=3,n=s,l=lat
अमित्रेषु अमित्र pos=n,g=m,c=7,n=p
अपि अपि pos=i
याचितः याच् pos=va,g=m,c=1,n=s,f=part
संस् अस् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
आत्मवन्तम् आत्मवत् pos=a,g=m,c=2,n=s
प्रजहति प्रहा pos=v,p=3,n=p,l=lat
अनर्थाः अनर्थ pos=n,g=m,c=1,n=p