Original

देशाचारान्समयाञ्जातिधर्मान्बुभूषते यस्तु परावरज्ञः ।स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति ॥ ९५ ॥

Segmented

देश-आचारान् समयान् जाति-धर्मान् बुभूषते यः तु परावर-ज्ञः स तत्र तत्र अधिगतः सदा एव महाजनस्य आधिपत्यम् करोति

Analysis

Word Lemma Parse
देश देश pos=n,comp=y
आचारान् आचार pos=n,g=m,c=2,n=p
समयान् समय pos=n,g=m,c=2,n=p
जाति जाति pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
बुभूषते बुभूष् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
परावर परावर pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
अधिगतः अधिगम् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
एव एव pos=i
महाजनस्य महाजन pos=n,g=m,c=6,n=s
आधिपत्यम् आधिपत्य pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat