Original

अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ ३३ ॥

Segmented

अमित्रम् कुरुते मित्रम् मित्रम् द्वेष्टि हिनस्ति च कर्म च आरभते दुष्टम् तम् आहुः मूढ-चेतसम्

Analysis

Word Lemma Parse
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
मित्रम् मित्र pos=n,g=m,c=2,n=s
मित्रम् मित्र pos=n,g=m,c=2,n=s
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat
pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
आरभते आरभ् pos=v,p=3,n=s,l=lat
दुष्टम् दुष्ट pos=a,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मूढ मुह् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s