Original

वेदोऽधीतश्चरितं ब्रह्मचर्यं यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम् ।परं स्थानं मन्यमानेन भूय आत्मा दत्तो वर्षपूगं सुखेभ्यः ॥ ७ ॥

Segmented

वेदो अधीतवान् चीर्णम् ब्रह्मचर्यम् यज्ञैः इष्टम् ब्राह्मणेभ्यः च दत्तम् परम् स्थानम् मन्यमानेन भूय आत्मा दत्तो वर्ष-पूगम् सुखेभ्यः

Analysis

Word Lemma Parse
वेदो वेद pos=n,g=m,c=1,n=s
अधीतवान् अधी pos=va,g=m,c=1,n=s,f=part
चीर्णम् चर् pos=va,g=n,c=1,n=s,f=part
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
परम् पर pos=n,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
मन्यमानेन मन् pos=va,g=m,c=3,n=s,f=part
भूय भूयस् pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
वर्ष वर्ष pos=n,comp=y
पूगम् पूग pos=n,g=m,c=2,n=s
सुखेभ्यः सुख pos=n,g=n,c=4,n=p