Original

ततोऽहं पुनरेवाथ तानष्टौ ब्रह्मवादिनः ।अद्राक्षं दीप्यमानान्वै ग्रहानष्टाविवोदितान् ॥ ३१ ॥

Segmented

ततो ऽहम् पुनः एव अथ तान् अष्टौ ब्रह्म-वादिनः अद्राक्षम् दीप्यमानान् वै ग्रहान् अष्टौ इव उदितान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
अथ अथ pos=i
तान् तद् pos=n,g=m,c=2,n=p
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=2,n=p
अद्राक्षम् दृश् pos=v,p=1,n=s,l=lun
दीप्यमानान् दीप् pos=va,g=m,c=2,n=p,f=part
वै वै pos=i
ग्रहान् ग्रह pos=n,g=m,c=2,n=p
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
इव इव pos=i
उदितान् उदि pos=va,g=m,c=2,n=p,f=part