Original

चत्वारस्तेन मे वाहाः सूतश्चैव विशां पते ।प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः ॥ २१ ॥

Segmented

चत्वारः तेन मे वाहाः सूतः च एव विशाम् पते प्रतिरुद्धाः तथा एव अहम् समरे दंशितः स्थितः

Analysis

Word Lemma Parse
चत्वारः चतुर् pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
वाहाः वाह pos=n,g=m,c=1,n=p
सूतः सूत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
प्रतिरुद्धाः प्रतिरुध् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
स्थितः स्था pos=va,g=m,c=1,n=s,f=part