Original

शल्य उवाच ।अथ संचिन्तयानस्य देवराजस्य धीमतः ।नहुषस्य वधोपायं लोकपालैः सहैव तैः ।तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत ॥ १ ॥

Segmented

शल्य उवाच अथ संचिन्तयानस्य देवराजस्य धीमतः नहुषस्य वध-उपायम् लोकपालैः सह एव तैः तपस्वी तत्र भगवान् अगस्त्यः प्रत्यदृश्यत

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
संचिन्तयानस्य संचिन्तय् pos=va,g=m,c=6,n=s,f=part
देवराजस्य देवराज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
नहुषस्य नहुष pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
उपायम् उपाय pos=n,g=m,c=2,n=s
लोकपालैः लोकपाल pos=n,g=m,c=3,n=p
सह सह pos=i
एव एव pos=i
तैः तद् pos=n,g=m,c=3,n=p
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan