Original

जनमेजय उवाच ।आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम् ।पितामहं भारतानां ध्वजं सर्वमहीक्षिताम् ॥ १ ॥

Segmented

जनमेजय उवाच आपगेयम् महात्मानम् भीष्मम् शस्त्रभृताम् वरम् पितामहम् भारतानाम् ध्वजम् सर्व-महीक्षिताम्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आपगेयम् आपगेय pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
भारतानाम् भारत pos=n,g=m,c=6,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p