Original

ततः पुरंदरं विष्णुरुवाच भुवनेश्वरम् ।अमृतं दीयतामस्मै क्रियताममरैः समः ॥ २३ ॥

Segmented

ततः पुरंदरम् विष्णुः उवाच भुवनेश्वरम् अमृतम् दीयताम् अस्मै क्रियताम् अमरैः समः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भुवनेश्वरम् भुवनेश्वर pos=n,g=m,c=2,n=s
अमृतम् अमृत pos=n,g=n,c=1,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
अस्मै इदम् pos=n,g=m,c=4,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
अमरैः अमर pos=n,g=m,c=3,n=p
समः सम pos=n,g=m,c=1,n=s