Original

वैशंपायन उवाच ।एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः ।अन्वजानात्स संयोगं समये मत्स्यपार्थयोः ॥ १२ ॥

Segmented

वैशंपायन उवाच एवम् ब्रुवति राज-इन्द्रे कुन्ती-पुत्रः युधिष्ठिरः अन्वजानात् स संयोगम् समये मत्स्य-पार्थयोः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
राज राजन् pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अन्वजानात् अनुज्ञा pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
संयोगम् संयोग pos=n,g=m,c=2,n=s
समये समय pos=n,g=m,c=7,n=s
मत्स्य मत्स्य pos=n,comp=y
पार्थयोः पार्थ pos=n,g=m,c=6,n=d