Original

तमापतन्तं प्रसमीक्ष्य पाण्डवं विराटराडिन्दुमिवाभ्रसंवृतम् ।मन्त्रिद्विजान्सूतमुखान्विशस्तथा ये चापि केचित्परिषत्समासते ।पप्रच्छ कोऽयं प्रथमं समेयिवाननेन योऽयं प्रसमीक्षते सभाम् ॥ ४ ॥

Segmented

तम् आपतन्तम् प्रसमीक्ष्य पाण्डवम् विराट-राज् इन्दुम् इव अभ्र-संवृतम् मन्त्रि-द्विजान् सूत-मुखान् विशः तथा ये च अपि केचित् परिषद् समासते पप्रच्छ को ऽयम् प्रथमम् समेयिवान् अनेन यो ऽयम् प्रसमीक्षते सभाम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
विराट विराट pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
इन्दुम् इन्दु pos=n,g=m,c=2,n=s
इव इव pos=i
अभ्र अभ्र pos=n,comp=y
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part
मन्त्रि मन्त्रिन् pos=n,comp=y
द्विजान् द्विज pos=n,g=m,c=2,n=p
सूत सूत pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
विशः विश् pos=n,g=f,c=2,n=p
तथा तथा pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
केचित् कश्चित् pos=n,g=m,c=1,n=p
परिषद् परिषद् pos=n,g=f,c=1,n=s
समासते समास् pos=v,p=3,n=p,l=lat
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
को pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
प्रथमम् प्रथमम् pos=i
समेयिवान् समे pos=va,g=m,c=1,n=s,f=part
अनेन इदम् pos=n,g=m,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
प्रसमीक्षते प्रसमीक्ष् pos=v,p=3,n=s,l=lat
सभाम् सभा pos=n,g=f,c=2,n=s