Original

जयतः कौरवीं सेनामेकस्य मम धन्विनः ।शतं मार्गा भविष्यन्ति पावकस्येव कानने ।मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् ॥ ७ ॥

Segmented

जयतः कौरवीम् सेनाम् एकस्य मम धन्विनः शतम् मार्गा भविष्यन्ति पावकस्य इव कानने मया चक्रम् इव आविद्धम् सैन्यम् द्रक्ष्यसि केवलम्

Analysis

Word Lemma Parse
जयतः जि pos=va,g=m,c=6,n=s,f=part
कौरवीम् कौरव pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
एकस्य एक pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
धन्विनः धन्विन् pos=a,g=m,c=6,n=s
शतम् शत pos=n,g=n,c=1,n=s
मार्गा मार्ग pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
पावकस्य पावक pos=n,g=m,c=6,n=s
इव इव pos=i
कानने कानन pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
इव इव pos=i
आविद्धम् आव्यध् pos=va,g=n,c=2,n=s,f=part
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
केवलम् केवल pos=a,g=n,c=2,n=s