Original

अत्र शांतनवो भीष्मो रथेऽस्माकं पितामहः ।काङ्क्षमाणो मया युद्धं तिष्ठत्यमरदर्शनः ।आदास्याम्यहमेतस्य धनुर्ज्यामपि चाहवे ॥ २ ॥

Segmented

अत्र शांतनवो भीष्मो रथे ऽस्माकम् पितामहः काङ्क्षमाणो मया युद्धम् तिष्ठति अमर-दर्शनः आदास्यामि अहम् एतस्य धनुः-ज्याम् अपि च आहवे

Analysis

Word Lemma Parse
अत्र अत्र pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
पितामहः पितामह pos=n,g=m,c=1,n=s
काङ्क्षमाणो काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
अमर अमर pos=n,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
आदास्यामि आदा pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
एतस्य एतद् pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,comp=y
ज्याम् ज्या pos=n,g=f,c=2,n=s
अपि अपि pos=i
pos=i
आहवे आहव pos=n,g=m,c=7,n=s