Original

तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः ।युध्यमानौ महात्मानौ यूथपाविव संगतौ ॥ ११ ॥

Segmented

तौ वीरौ कुरवः सर्वे ददृशुः विस्मय-अन्विताः युध्यमानौ महात्मानौ यूथपौ इव संगतौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
वीरौ वीर pos=n,g=m,c=2,n=d
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
विस्मय विस्मय pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
युध्यमानौ युध् pos=va,g=m,c=2,n=d,f=part
महात्मानौ महात्मन् pos=a,g=m,c=2,n=d
यूथपौ यूथप pos=n,g=m,c=2,n=d
इव इव pos=i
संगतौ संगम् pos=va,g=m,c=2,n=d,f=part