Original

कवचानि विचित्राणि दृढानि च मृदूनि च ।विराटः प्रादिशद्यानि तेषामक्लिष्टकर्मणाम् ।तान्यामुच्य शरीरेषु दंशितास्ते परंतपाः ॥ २४ ॥

Segmented

कवचानि विचित्राणि दृढानि च मृदूनि च विराटः प्रादिशद् यानि तेषाम् अक्लिष्ट-कर्मणाम् तानि आमुच्य शरीरेषु दंशिताः ते परंतपाः

Analysis

Word Lemma Parse
कवचानि कवच pos=n,g=n,c=2,n=p
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
दृढानि दृढ pos=a,g=n,c=2,n=p
pos=i
मृदूनि मृदु pos=a,g=n,c=2,n=p
pos=i
विराटः विराट pos=n,g=m,c=1,n=s
प्रादिशद् प्रदिश् pos=v,p=3,n=s,l=lan
यानि यद् pos=n,g=n,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
तानि तद् pos=n,g=n,c=2,n=p
आमुच्य आमुच् pos=vi
शरीरेषु शरीर pos=n,g=n,c=7,n=p
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
परंतपाः परंतप pos=a,g=m,c=1,n=p