Original

धर्मात्मा स तदादृश्यः सोऽपि तात द्विजातिभिः ।किं पुनः प्राकृतैः पार्थः शक्यो विज्ञातुमन्ततः ॥ २५ ॥

Segmented

धर्म-आत्मा स तदा अदृश्यः सो ऽपि तात द्विजातिभिः किम् पुनः प्राकृतैः पार्थः शक्यो विज्ञातुम् अन्ततः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
अदृश्यः अदृश्य pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तात तात pos=n,g=m,c=8,n=s
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
प्राकृतैः प्राकृत pos=a,g=m,c=3,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
विज्ञातुम् विज्ञा pos=vi
अन्ततः अन्ततस् pos=i