Original

शक्तोऽयमित्यतो मत्वा मया संप्रेषितोऽर्जुनः ।इन्द्रादनवरः शक्तः सुरसूनुः सुराधिपम् ।द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः ॥ ६ ॥

Segmented

शक्तो ऽयम् इति अतस् मत्वा मया संप्रेषितो ऽर्जुनः इन्द्राद् अनवरः शक्तः सुर-सूनुः सुराधिपम् द्रष्टुम् अस्त्राणि च आदातुम् इन्द्राद् इति विवासितः

Analysis

Word Lemma Parse
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
अतस् अतस् pos=i
मत्वा मन् pos=vi
मया मद् pos=n,g=,c=3,n=s
संप्रेषितो संप्रेषय् pos=va,g=m,c=1,n=s,f=part
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
इन्द्राद् इन्द्र pos=n,g=m,c=5,n=s
अनवरः अनवर pos=a,g=m,c=1,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
सुर सुर pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s
सुराधिपम् सुराधिप pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
pos=i
आदातुम् आदा pos=vi
इन्द्राद् इन्द्र pos=n,g=m,c=5,n=s
इति इति pos=i
विवासितः विवासय् pos=va,g=m,c=1,n=s,f=part