Original

ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना ।परीता तेन दुःखेन निशश्वासायतेक्षणा ॥ २० ॥

Segmented

ततः स्व-उरसि विन्यस्य वक्त्रम् तस्य शुभ-आनना परीता तेन दुःखेन निशश्वास आयत-ईक्षणा

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्व स्व pos=a,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s
विन्यस्य विन्यस् pos=vi
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शुभ शुभ pos=a,comp=y
आनना आनन pos=n,g=f,c=1,n=s
परीता परी pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
निशश्वास निश्वस् pos=v,p=3,n=s,l=lit
आयत आयम् pos=va,comp=y,f=part
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s