Original

यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः ।त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः ॥ ५ ॥

Segmented

यस्य नित्यम् ऋता वाचः स्वैरेषु अपि महात्मनः त्रैलोक्यम् अपि तस्य स्याद् योद्धा यस्य धनंजयः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
नित्यम् नित्यम् pos=i
ऋता ऋत pos=a,g=f,c=1,n=p
वाचः वाच् pos=n,g=f,c=1,n=p
स्वैरेषु स्वैर pos=a,g=m,c=7,n=p
अपि अपि pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
योद्धा योद्धृ pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s