Original

तत्रापश्यद्द्रुमान्फुल्लान्विहगैर्वल्गु नादितान् ।नदीश्च बहुलावर्ता नीलवैडूर्यसंनिभाः ॥ १७ ॥

Segmented

तत्र अपश्यत् द्रुमान् फुल्लान् विहगैः वल्गु-नादितान् नदीः च बहुल-आवर्ताः नील-वैडूर्य-संनिभाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
फुल्लान् फुल्ल pos=a,g=m,c=2,n=p
विहगैः विहग pos=n,g=m,c=3,n=p
वल्गु वल्गु pos=a,comp=y
नादितान् नादय् pos=va,g=m,c=2,n=p,f=part
नदीः नदी pos=n,g=f,c=2,n=p
pos=i
बहुल बहुल pos=a,comp=y
आवर्ताः आवर्त pos=n,g=f,c=2,n=p
नील नील pos=n,comp=y
वैडूर्य वैडूर्य pos=n,comp=y
संनिभाः संनिभ pos=a,g=f,c=2,n=p