Original

यक्ष उवाच ।यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् ।तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ॥ ७४ ॥

Segmented

यक्ष उवाच यस्य ते अर्थतः च कामात् च आनृशंस्यम् परम् मतम् तस्मात् ते भ्रातरः सर्वे जीवन्तु भरत-ऋषभ

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्य यद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
अर्थतः अर्थ pos=n,g=m,c=5,n=s
pos=i
कामात् काम pos=n,g=m,c=5,n=s
pos=i
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
तस्मात् तद् pos=n,g=n,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
जीवन्तु जीव् pos=v,p=3,n=p,l=lot
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s