Original

युधिष्ठिर उवाच ।सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः ।आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः ॥ ४५ ॥

Segmented

युधिष्ठिर उवाच सार्थः प्रवसतो मित्रम् भार्या मित्रम् गृहे सतः आतुरस्य भिषज् मित्रम् दानम् मित्रम् मरिष्यतः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सार्थः सार्थ pos=n,g=m,c=1,n=s
प्रवसतो प्रवस् pos=va,g=m,c=6,n=s,f=part
मित्रम् मित्र pos=n,g=n,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
गृहे गृह pos=n,g=m,c=7,n=s
सतः अस् pos=va,g=m,c=6,n=s,f=part
आतुरस्य आतुर pos=a,g=m,c=6,n=s
भिषज् भिषज् pos=n,g=m,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
मरिष्यतः मृ pos=va,g=m,c=6,n=s,f=part